Your shopping cart is empty!
संस्कृतकाव्यशास्त्रपरम्परायां मुख्यत आलङ्कारिकेषु आचार्यदण्डिन: काव्यादर्शस्य महनीयतमं स्थान्मङ्गीक्रियते। ग्रन्थस्यास्योपरि समये समये विद्विद्भि: स्वस्वमतानुसारं विवेचनं प्रस्तुतं। एवं परिदृष्टायां व्याख्यानशैल्यां या: चतस्र: टीका: समुपलब्धा: तासामेकत्रैव प्रकाशनमद्यावधि समालोचकानां समक्षे अनुपलक्षितमासीत्। एता: चतस्र टीका: सन्ति - १. रत्नश्री, २. हृदयङ्गमा, ३. प्रभा, ४. विवृति च।
सर्वासां टीकानां समग्रं व्याख्यानं प्रत्येकं कारिकाया अनन्तरं सफ़ुततया प्रदत्तम्। ग्रन्थश्चैश: पञ्चसु भागेषु प्रकाशित: क्रियते। आशासे सर्वेषां काव्यशास्त्रं प्रविविक्षूणां छात्राणां समालोचाकानां च कृते ग्रन्थ एष साहाय्यप्रद: समपत्स्यते।