साहित्यं हि तात्कालिकसमाजस्य दर्पण इति प्रसिद्धम्। तत्र निखिललोकव्यवहारदर्पणोपमे संस्कृतकाव्ये सकलशास्त्रवद् धर्मशास्त्रमपि प्रतिबिंबते। महाकविशूद्रकप्रणीतं मृच्छकटिकं नाम प्रकरणं दृश्यकाव्यम्। तत्र भूयांसो धर्मशास्त्रविषयाः समुपलभ्यन्ते। तेषां सङकलनं धर्मशास्त्रदृष्टया समीक्षणं च जिज्ञासुनां महोपकाराय कल्पेत। इदानिन्तनः समाजो धर्मपथात् प्रविचलति। मृच्छकटिककालिकसमाजस्य धर्मशास्त्रसम्मतता जीवनसरिणिदानिन्तनं समाजं धर्ममयजीवनाय प्रेरयेदिति धिया ग्रंथोऽयमुपनिबद्धः। प्रस्तुतोऽयं ग्रन्थः सप्तस्वध्यायेषु विभक्तः। अत्र शूद्रकस्य मृच्छकटिकस्य च परिचयः, मृच्छकटिके धर्मः, वर्णाश्रमधर्मपुरुषार्थसदाचाराः, संस्कारपञ्चमहायज्ञदानशुद्धयः, राजधर्मः, स्त्रियाधर्मो धनं च, प्रकीर्णविविधविषयाश्च धर्मशास्त्रीयस्वरूपप्रदर्शनपुरस्सरं समीक्षितानि। एवमयं ग्रन्थो मृच्छकटिके लभ्यमानानि धर्मशास्त्रीयतत्त्वानि काव्यशास्त्रीयवैशिष्ट्येन सह प्रकाशयति।