यथा अस्य नाम्नैव ज्ञायते भगीरथ्या दर्शनमेव अस्य काव्यस्य प्रमुखमुद्देश्यं वर्त्तते। भागिरथी परमपावनी गङ्गा, अस्य राष्ट्रस्यास्मिताया, एतस्य संस्कृते, भारतीयजीवनदर्शनस्य चाधारशिलैव वर्त्तते। आदिकालादेव, इयं हिमालयक्षेत्रादारभ्य सागरपर्यन्तं प्रवहमाना राष्ट्रस्य जन जीवनं पोशयन्ती, भारतवसुन्धरायाः समृद्धिमेधयन्ती, घनवनवृक्षलतापुष्पफलागमै: सर्वत्र समुद्घाटयन्ती न केवलमाधिभौतिकीं जीवनपद्धतिं प्रभावयति ,परूच पारलौकिक-मानवजीवनस्य भव्य मार्ग प्ररदश्यन्ती, जनजन कल्याण कारिणी, मनस्तत्यहारिणी, मुक्तिप्रदायिनी, इयमाराधनीया वर्त्तते।
अस्य महाकाव्यस्य कलेवरं दशसु तरङ्गाख्येषु सर्गेषु विस्तृतं वर्त्तते। ते सर्गाः एवं परिगणनीयाः १- गङ्गावतरनम् २- शान्तनुचरितम् ३- तीर्थवर्णनम् ४- कान्यकुब्ज क्षेत्र वर्णनम् ५- प्रयागवर्णनम् ६- वाराणसीवर्णनम् ७- बिहारबङ्गवर्णनम् ८- सगरसूनु चरितवर्णनम् ९- पर्यावरणप्रदूषणवर्णनम् १०- अपराधक्षमापनम्। एतेषु प्रथमः सर्गः भगवत्या भागीरथ्या: प्रारम्भिकवर्णनपरोस्ति।