श्रीकृष्ण प्रादुर्भाव-बाल्यचरित-शौर्य- तारुण्यालौकिकमहत्त्वादिना सहैव राधा-कृष्णयोः परिणयोपन्यासो हि विशेषतश्चारित्रिकोत्कर्षाथायकोऽभिनिवेशितोऽस्मिन् भव्ये राधापरिणय- महाकाव्ये। प्रभूतालङकारच्छन्दोरीति-रुचिराणि विद्यन्तेऽत्रपदानि, अभिधया लक्षणया चाप्रधानवृत्तया प्रतिपादिताः पदार्थाः प्रायेण विच्छिति-विशेषाधायिव्यङगय- व्यञ्जकतया पदकदम्बकानीव गुणपदवीं नातिशेरते सत्यामपि संहतावलङ्कृताम्, कलाकलापेन परमेश्वरावताराः श्रीकृष्णः प्रधानं धीरोदात्तनायकः, नायिका च श्रीराधा, शृङ्गारस्तदधिष्ठातृदैवतकः, प्रबन्धस्य परे तु रसाः पदवाक्यसर्गादिना ध्वनेरध्वनि पथिकतां दधाना अङ्गाङ्गिभावेन सङ्गच्छन्ते। अत्र प्रथमे सर्गे आद्यन्तमन्त्यानुप्रासः प्रतिपद्यं हृद्तया निवेशितो, यो हि संस्कृत-साहित्ये विरलप्रयोग एव। स हि भाषाकाव्यमिवाह्लादकारित्वेन साफल्यं भजते। विविधवर्णनानि हि समसामयिक-वस्तु-व्यवहाराद्यनुरूपाणि विराजन्ते। अस्मिन् महाकाव्ये कुमारसंभव इवेतिवृत्तनाम्ना काव्यस्य, गीतगोविंद इव च उपादयेकथानाम्ना सर्गाणां नामविधानं नूनमावश्यकमपि यमकादिचित्रकाव्यं प्राचीन-कतिपय महाकविकाव्यालोकनेनोपनिबद्धं नितरां संहॄदयान् मोदयतितराम्।