Your shopping cart is empty!
लेखकस्य तृतीयोsयं काव्यसंग्रहो "वीणा" नाम। अत्र सन्ति गुण-रस-नयन (२६३) मिता: काव्यबन्धा:सङ्गृहीता: प्रत्येकं स्वतन्त्रा।
वन्दना भाग्वत्यो नैकविधपरिधाना:, संवादा:विसंवादाश्च विविधा विविधरसा:, समस्यामूला अनेके झङ्कारा मनोहरा:, पशुपक्षिगिरिसर: सरित्तरुलतादूर्वाग्रह
नक्षत्रसन्देशा भूयांस: परस्परं विरुन्धन्त्योsरुन्धन्त्यो भूमिका अनेका मानवमानवेतरप्रकृतीनां भावचित्राणि च भूयांसि नानावर्णा कृतीनि शक्यन्तेsवलोकयितुं भावयितुमत्र भावुकै: सहृदयै:।
s